वांछित मन्त्र चुनें

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥

अंग्रेज़ी लिप्यंतरण

mano na yeṣu havaneṣu tigmaṁ vipaḥ śacyā vanutho dravantā | ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṁ gabhastau ||

पद पाठ

मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता । आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥ १०.६१.३

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:26» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (येषु हवनेषु) जिन आमन्त्रणों में या विद्याग्रहणप्रसङ्गों में (मनः-न तिग्मम्) मन के समान तीव्र गतिवाले (विपः) मेधावी शिक्षित स्नातक को (द्रवन्तां शच्या वनुथः) प्राप्त करते हुए माता-पिता या स्त्री-पुरुष वर्ग वाणी द्वारा सत्कार करते हैं-स्नेह करते हैं (यः) जो स्नातक (तुविनृम्णः) बहुत विद्याधनवाला है (अस्य शर्याभिः) इसकी स्नेहमयी अङ्गुलियों के द्वारा (आदिशं गभस्तौ-आश्रीणीत) आदेशवचन को हाथ में ग्रहण करते हुए जैसे सब जन भलीभाँति पोषण करें-अनुमोदन करें ॥३॥
भावार्थभाषाः - स्नातक जब माता-पिता या स्त्री-पुरुषों में विद्याप्राप्ति के अनन्तर उपस्थित हो, तो उसका स्नेह से स्वागत करें और उसके विद्यावचनों को हाथ में जैसे ग्रहण करने के समान ग्रहण करें और उसे अपना अनुमोदन प्रदान करें ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (येषु  हवनेषु) येषु खल्वामन्त्रणेषु “हवनश्रुतः-ह्वानश्रुतः” [निरु० ६।२०] विद्याग्रहणेषु वा (मनः-न तिग्मम्) मन इव तीव्रगतिकम् “तिग्म तीव्रम्” [ऋ० १।१३०।४ दयानन्दः] (विपः) विपम् “सुपां सु...” [अष्टा० ७।१।३९] ‘इति सुप्रत्ययः’ मेधाविनामधीतविद्यं स्नातकं (द्रवन्तां शच्या वनुथः) प्राप्नुवन्तौ मातापितरौ स्त्रीपुरुषौ वाचा वाक्सत्कारेण “शची वाङ्नाम” [निघ०  १।११] सम्भजतः स्निह्यतः ‘पुरुषव्यत्ययः’ (यः) यस्स्नातकः (तुविनृम्णः) बहुविद्याधनोऽस्ति (अस्य शर्याभिः) स्नेहमयीभिरङ्गुलिभिः “शर्या अङ्गुलिनाम” [निघ० २।५] (आदिशं गभस्तौ-आश्रीणीत) आदेशनं वचनं पाणौ हस्ते गृहीत्वेव “पाणी वै गभस्ती” श०  ४।१।१।२]  सर्वो जनः समन्तात् पोषयेत् ॥३॥